वांछित मन्त्र चुनें

अ॒स्य पि॑ब क्षु॒मत॒: प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ । स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥

अंग्रेज़ी लिप्यंतरण

asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya | svastidā manasā mādayasvārvācīno revate saubhagāya ||

पद पाठ

अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ । स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥ १०.११६.२

ऋग्वेद » मण्डल:10» सूक्त:116» मन्त्र:2 | अष्टक:8» अध्याय:6» वर्ग:20» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् या आत्मन् ! (अस्य प्रस्थितस्य) इस समर्पित निष्पन्न (क्षुमतः सोमस्य) प्रशस्त अन्न सोमरस के (वरम्) वरणीय रस को (आ पिब) भलीभाँति पी या ग्रहण कर (स्वस्तिदाः) कल्याण देनेवाले (अर्वाचीनः) सामने प्राप्त हुआ है (रेवते सौभगाय) पुष्टिवाले सौभाग्य के लिये (मनसा) मन से (मादयस्व) तृप्त हो ॥२॥
भावार्थभाषाः - राजा या आत्मा प्रशस्त प्राप्त सोमरस, जो कल्याणदायक है, उसका पान करे, सुरापान नहीं करे, ये सौभाग्य के लिये और पुष्टि के लिये है तथा मानसिक तृप्ति के लिये है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! आत्मन् ! वा (अस्य क्षुमतः-प्रस्थितस्य सोमस्य) अस्य प्रशस्तान्नस्य “क्षुमत्-अन्ननाम” [निघ० २।७] समर्पितस्य निष्पन्नस्य सोमस्यौषधिभूतस्य (वरम्-आ पिब) वरणीयं रसं पिब गृहाण वा (स्वस्तिदा-अर्वाचीनः) कल्याणदाता-अस्मदभिमुखः सन् (रेवते सौभगाय) पुष्टिमते “रयिः पुष्टिः” [जै० १।२४] सौभाग्याय (मनसा-मादयस्व) मनसा तृप्तो भव “मद तृप्तियोगे” [चुरादि०] ॥२॥